अजगवम्

सुधाव्याख्या

अजेन ब्रह्मणा गम्यते इति । 'अन्येष्वपि दृश्यते (वा० ३.२.४८) इति ङः । अजं छागं गच्छति यज्ञत्वेन प्रविशतीति वा । अजगो विष्णुरस्ति शरत्वेनास्मिन्निति । गाण्ड्यजगात्संज्ञायाम् ' (५.२.११०) इति व: ।। प्रज्ञादित्वात् (५.४.३८) अणि 'आजगवम्’ अपि । ‘आजगवमजस्य वा पिनाकं वा’ इति बोपालितः । ‘स्थाणोर्धनुराजगवम्' इत्यमरमाला च । अजो विष्णुः, को ब्रह्मा, ताववतीति अजकावम्’ अपि ’धनुस्त्वजगवं युग्यमजकावमजीजकम् इति शब्दार्णवात् । अजकौ विष्णुब्रह्माणौ वातीति ‘अजकवम्' अपि । ‘सुपि’ (३.२.४) इति (योगविभागात्) 'आतोऽनुपसगे-'(३.२.३) इति वा क: ।।


प्रक्रिया

धातुः - गमॢँ गतौ


गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अज + टा गम् + ड - अन्येष्वपि दृश्यते (वा० ३.२.४८)
अज + गम् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
अज + गम् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
अज + ग् + अ - डित्वसामर्थ्यादभस्यापि टेर्लोपः ।
अजग + व - गाण्ड्यजगात्‌ संज्ञायाम् 5.2.110
अजगव + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अजगव + अम् - अतोऽम् 7.1.24
अजगवम् - अमि पूर्वः 6.1.107