कपर्दः

सुधाव्याख्या

कपर्द इति । 'पर्व पूरणे' (भ्वा० प० से०) । सम्पदादित्वात् (वा० ३.३.१०८) । भावे क्विप् । राल्लोपः' (६.४.२१) । केन सुखेन जलेन वा परं पूर्तिं ददाति । “सुपि’ (३.२.४) इति योगविभागात् कः । कस्य जलस्य परा पूरणेन दायतीति वा । "दैप् शोधने’ (भ्वा० प० अ०) (कपर्दः पार्वतीभर्तुर्जटाजूटे वराटके' । अर्शआद्यजन्तः शिवेऽपि) ।


प्रक्रिया

धातुः - पर्वँ पूरणे,डुदाञ् दाने


पर्वँ पूरणे
पर्व् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पर्व+क्विप् - संपदादिभ्यः क्विप् । 3.3.108 वार्तिकम्
पर्व व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पर्व् - वेरपृक्तस्य 6.1.67
पर् - राल्लोपः 6.4.21
डुदाञ् दाने
दा - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
क+टा दा+क - सुपि स्थः 3.2.4
क+दा+क - सुपो धातुप्रातिपदिकयोः 2.4.71
क+दा+अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
क+द्+अ - आतो लोप इटि च 6.4.64
क + टा पर्द + सु - उपपदमतिङ् 2.2.19
कपर्द - सुपो धातुप्रातिपदिकयोः 2.4.71
कपर्द + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कपर्द + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कपर्द + रु - ससजुषो रुः 8.2.66
कपर्द + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कपर्दः - खरवसानयोर्विसर्जनीयः 8.3.15