पारिषदाः

सुधाव्याख्या

परिषदि साधवः । पर्षदो ण्यः (४.४.१०१) इत्यत्र ‘परिषदः’ इति योगविभागात् 'णः' । अण्' इति तु मुकुटस्य प्रमादः । भक्ताण्णः (४.४.१००) इत्यनुवृत्तेः । ण्ये तु पारिषद्या: । 'पर्षदो ण्य:’ (४.४.१०१) इति पाठे पार्षद पार्षद्यावपि । ‘भूताः शिवस्य पार्षद्या पार्षदाः' इति संसारावर्तात् ।।