मातरः

सुधाव्याख्या

ब्राह्मीति । 'मान पूजायाम् (भ्वा० प० से०, चु० उ० से०) । मान्यन्ते पूज्यन्ते लोकमातृत्वात् इति मातरः । ‘नप्तृ- नेष्ट-' (उ० २.९५) इति सूत्रेण निपातितः । मान्ति शिव- परिवारत्वेन समाविशन्तीति वा ।। ब्रह्मण इयं ब्राही । तस्येदम्' (४.३.१२०) इत्यणि 'ब्राह्मो ज ।।