अमरकोशः


श्लोकः

शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनः । कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ॥ २८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पाञ्चजन्य पाञ्चजन्यः पुंलिङ्गः पञ्चजने दैत्यभेदे भवः । यञ् तद्धितः अकारान्तः
2 सुदर्शन सुदर्शनः पुंलिङ्गः, नपुंसकलिङ्गः शोभनं दर्शनमस्य । बहुव्रीहिः समासः अकारान्तः
3 कौमोदकी कौमोदकी स्त्रीलिङ्गः पालकत्वात् कोः पृथिव्या मोदकः कुमोदको विष्णुः । तस्येयम् । अण् तद्धितः ईकारान्तः
4 गदा गदा स्त्रीलिङ्गः गदति । अच् कृत् आकारान्तः
5 नन्दक नन्दकः पुंलिङ्गः नन्दयति देवान् । ण्वुल् कृत् अकारान्तः
6 कौस्तुभ कौस्तुभः पुंलिङ्गः कुं भुवं स्तुभ्नानि व्याप्नोति । अण् तद्धितः अकारान्तः