पाञ्चजन्यः

सुधाव्याख्या

शङ्ख इति । पञ्चजने दैत्यभेदे भवः । ‘पञ्चजनात्’ (वा० / ४.३.५८) इति यञ् । यत्तु मुकुटः बहिर्देवपञ्चजनेभ्यः इत्युपसंख्यानाञ्ञ्यः इति । तन्न । एतादृशवार्तिकाभावात् । पञ्चजने पाताले भव इति स्वामी । पाञ्चजन्यः पोटगले विष्णुशङ्खे हुताशने') |