सुदर्शनः

सुधाव्याख्या

शोभनं दर्शनमस्य । सुखेन दृश्यत इति वा । भाषायां शासियुधिदृशिमुषिभ्यो युच् (वा० ३.३.१३०) ‘सुदर्शनो हरेश्चक्रे मेरुजम्बुद्रुमे पुमान् नद्वयोः शक्रनगरे आ(प्रा)ज्ञौषधिभिदोः स्त्रियाम् । ‘सुदर्शनोऽस्त्रियां चक्रे' इति नामनिधानात् क्लीबेऽपि ।।


प्रक्रिया

सु+दर्शन+सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
सु+दर्शन - सुपो धातुप्रातिपदिकयोः 2.4.71
सुदर्शन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सुदर्शन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सुदर्शन + रु - ससजुषो रुः 8.2.66
सुदर्शन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सुदर्शनः - खरवसानयोर्विसर्जनीयः 8.3.15