कौमोदकी

सुधाव्याख्या

पालकत्वात् कोः पृथिव्या मोदकः कुमोदको विष्णुः । 'विष्णुः कुमोदकः शौरिः’ इति दुर्गः । तस्येयम् । कूपोदकाज्जातत्वात् कौपोदकी इति तु स्वामी ।