अमरकोशः


श्लोकः

पुंसि क्लीबे च काकोलकालकूटहलाहलाः । सौराष्ट्रिक: शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काकोल काकोलः पुंलिङ्गः, नपुंसकलिङ्गः ईषत् कोलति । अच् कृत् अकारान्तः
2 कालकूट कालकूटः पुंलिङ्गः, नपुंसकलिङ्गः कालमपि कूटयति । अण् कृत् अकारान्तः
3 हलाहल हलाहलः पुंलिङ्गः, नपुंसकलिङ्गः न हलति आहलति वा अच् कृत् अकारान्तः
4 सौराष्ट्रिक सौराष्ट्रिकः पुंलिङ्गः सौराष्ट्रे देशभेदे भवः । ठञ् तद्धितः अकारान्तः
5 शौक्लिकेय शौक्लिकेयः पुंलिङ्गः शुक्लिके देशे भवः । ठञ् तद्धितः अकारान्तः
6 ब्रह्मपुत्र ब्रह्मपुत्रः पुंलिङ्गः ब्रह्मणः पुत्रः । तत्पुरुषः समासः अकारान्तः
7 प्रदीपन प्रदीपनः पुंलिङ्गः प्रदीपयति णिच् कृत् अकारान्तः