सौराष्ट्रिकः

सुधाव्याख्या

एते त्रयः क्लीबपुंसोः । सौराष्ट्रे देशभेदे भवः । अध्यात्मादित्वात् (वा० ४.३.६० ) ठञ् । 'सारोष्ट्रिकः इति पाठः—इति मुकुटः । सुराष्ट्रे भव इति तु स्वामी ।


प्रक्रिया

सौराष्ट्र + ङि + ठञ् – अध्यात्मादेष्ठञिष्यते (4.3.60) । वार्तिकम् ।
सौराष्ट्र + ठञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
सौराष्ट्र + ठ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सौराष्ट्र + इक् + अ - ठस्येकः 7.3.50
सौराष्ट्र् + इक - यस्येति च 6.4.148
सौराष्ट्रिक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सौराष्ट्रिक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सौराष्ट्रिक + रु - ससजुषो रुः 8.2.66
सौराष्ट्रिक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सौराष्ट्रिकः - खरवसानयोर्विसर्जनीयः 8.3.15