हलाहलः

सुधाव्याख्या

हलति जठरम् 'हल विलेखने' (भ्वा० प० से०) । न हलति आहलति वा अच् (३.१.१३४) । अहलम् आहलम्, वा । ततः कर्मधारयः हाला इव, हलतीति वा । हलमिव हलति । अच् (३.१.१३४) प्रज्ञाद्यण् (५.३.३८) । हालाहलं हालहलं वदन्त्यपि हलाहलम्’ इति द्विरूपकोषः । ‘गोनासगोनसौ हालाहलं हालहलं विषम्’ इति त्रिकाण्डशेषः । ‘हलाहलस्तु हयलालोरगे विषे । ज्येष्ठ्यां च' इति हैम: ।


प्रक्रिया

धातुः - हलँ विलेखने


हल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हल् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
हल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नञ् + हल + सु - नञ्‌ 2.2.6
नञ् + हल - सुपो धातुप्रातिपदिकयोः 2.4.71
न + हल - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अहल - नलोपो नञः 6.3.73
हल + अम् + अहल + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
हल + अहल - सुपो धातुप्रातिपदिकयोः 2.4.71
हलाहल - अकः सवर्णे दीर्घः 6.1.101
हलाहल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
हलाहल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हलाहल + रु - ससजुषो रुः 8.2.66
हलाहल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हलाहलः - खरवसानयोर्विसर्जनीयः 8.3.15