अमरकोशः


श्लोकः

अधोभुवनपातालबलिसद्मरसातलम् । नागलोकोऽथ कुहरं शुषिरं विवरं बिलम् ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अधोभुवन अधोभुवनम् नपुंसकलिङ्गः अधश्च तद्भुवनं च । कर्मधारय समासः अकारान्तः
2 पाताल पातालम् नपुंसकलिङ्गः पतन्त्यत्र पापात् । आलच् उणादिः अकारान्तः
3 बलिसद्मन् बलिसद्म नपुंसकलिङ्गः बलेः सद्म । नकारान्तः
4 रसातल रसातलम् नपुंसकलिङ्गः रसायास्तलमधः । अकारान्तः
5 नागलोक नागलोकः नपुंसकलिङ्गः नागानां लोक । तत्पुरुषः समासः अकारान्तः
6 कुहर कुहरम् नपुंसकलिङ्गः कुं हरति। अच् कृत् अकारान्तः
7 शुषिर शुषिरम् नपुंसकलिङ्गः शोषणम् । इन् उणादिः अकारान्तः
8 विवर विवरम् नपुंसकलिङ्गः विवृणोति । अच् कृत् अकारान्तः
9 विल बिलम् नपुंसकलिङ्गः विलति भिनत्ति । कः कृत् अकारान्तः