विवरम्

सुधाव्याख्या

विवृणोति । ‘वृञ् वरणे’ (स्वा उ० से०) । पचाद्यच् (३.१.१३४) । यद्वा विव्रियते । ‘ग्रहवृद्निश्चिगमश्च’ (३.३.५८) इत्यप् । विगतो वरोऽस्माद्वा । वीनां पक्षिणां वरं वा । ‘विवरं दूषणे गर्ते ।