कुहरम्

सुधाव्याख्या

कुं हरति। ‘हरतेरनुद्यमनेऽच्' (३.२.९) । यद्वा कुह विस्मापने’ (चु० अ० से०) । इगुपधत्वात् (३.१.१३५) कः। कुहं रात्रि । ‘रा दाने’ (अ० प० अ०) । आतोऽनुप-’ (३.२.३ ) इति कः । ‘कुहरं गह्वरे च्छिद्रे क्लीबं नागान्तरे पुमान् ।