शुषिरम्

सुधाव्याख्या

शोषणम् । ‘शुष शोषणे' (दि० प० अ०) । ‘इगुपधात्कित्' (उ० ४.१२० )। शुषिरस्यास्ति । ‘उषशुषि-' (५.२.१०७ ) इति रः । ‘शुषिरं वंशादिवाद्य विवरेऽपि नपुंसकम् । शुषिरो न स्त्रियां गर्ते वह्नौ रन्ध्रान्विते त्रिषु'॥