अमरकोशः


श्लोकः

वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः । मर्दलः पणवोऽन्ये च नर्तकीलासिके समे ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 डमरु डमरुः पुंलिङ्गः 'डम्’ इति शब्दमियर्ति । कुः उणादिः उकारान्तः
2 मड्डु मड्डुः पुंलिङ्गः स एव महान् मड्डुः । डः उणादिः उकारान्तः
3 डिण्डिम डिण्डिमः पुंलिङ्गः ‘डिण्डि’ इति शब्दं मिनोति प्रकाशयति । डः कृत् अकारान्तः
4 झर्झर झर्झरः पुंलिङ्गः झर्झशब्दं राति । कः कृत् अकारान्तः
5 मर्दल मर्दलः पुंलिङ्गः मर्दमुपमर्दं लाति । कः कृत् अकारान्तः
6 पणव पणवः पुंलिङ्गः पणं व्यवहारं वाति गच्छति । कः अकारान्तः
7 नर्तकी नर्तकी स्त्रीलिङ्गः नृत्यति । ष्वुन् कृत् ईकारान्तः
8 लासिका लासिका स्त्रीलिङ्गः लसति । ण्वुल् कृत् आकारान्तः