लासिका

सुधाव्याख्या

लसति । 'लस श्लेषण क्रीडनयोः' (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । अनयोः क्रियोपाधिकतया वाच्यलिङ्गत्वात्पुंस्त्वनिर्देशस्यौत्सर्गिकत्वात् 'नर्तको लासकः समौ’ इति वक्तव्ये स्त्रीनिर्देशो ङीष्टापोविवेकार्थ: । ‘लासकौ केकिनर्तकौ’ इति हैमः ।