डिण्डिमः

सुधाव्याख्या

‘डिण्डि’ इति शब्दं मिनोति प्रकाशयति । ड: (वा० ३.२.१०१)


प्रक्रिया

धातु : डुमिञ् प्रक्षेपणे


मि - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
डिण्डि + सु + मि + ड - अन्येभ्योऽपि दृश्यते (3.2.101) । वार्तिकम् ।
डिण्डि + मि + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
डिण्डि + मि + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
डिण्डि + म् + अ - डित्वसामर्थ्यादभस्यापि टेर्लोपः ।
डिण्डिम + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
डिण्डिम + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
डिण्डिम + रु - ससजुषो रुः 8.2.66
डिण्डिम + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
डिण्डिमः - खरवसानयोर्विसर्जनीयः 8.3.15