नर्तकी

सुधाव्याख्या

नर्तकीति । नृत्यति । 'नृती गात्रविक्षेपे (दि० प० से०) । 'शिल्पिनि ष्वुन् (३.१.१४५) । षित्वात् ४.१.४१) डीप् । नर्तकः केवले पोटगलचारणयोर्नटे । नर्तकी लासिकायां च करेण्वामपि योषिति' ।