अमरकोशः


श्लोकः

प्रेमा ना प्रियता हार्दै प्रेम स्नेहोऽथ दोहदम् । इच्छा काङ्घा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः ॥ २७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रेमन् प्रेमा स्त्रीलिङ्गः प्रीणाति प्रियः । इमनिच् तद्धितः नकारान्तः
2 प्रियता प्रियता स्त्रीलिङ्गः तल् तद्धितः आकारान्तः
3 हार्द हार्दम् नपुंसकलिङ्गः हृदयस्य कर्म । अण् तद्धितः अकारान्तः
4 प्रेम प्रेम नपुंसकलिङ्गः प्रयणम् । मनिन् अकारान्तः
5 स्नेह स्नेहः पुंलिङ्गः स्नेहनम् । घञ् अकारान्तः
6 दोहद दोहदः पुंलिङ्गः, नपुंसकलिङ्गः दोहमाकर्षं ददाति । कः कृत् अकारान्तः
7 इच्छा इच्छा स्त्रीलिङ्गः शप् आकारान्तः
8 काञ्छा आकाङ्क्षा स्त्रीलिङ्गः अः कृत् आकारान्तः
9 स्पृहा स्पृहा स्त्रीलिङ्गः अङ् आकारान्तः
10 ईहा ईहा स्त्रीलिङ्गः अः कृत् आकारान्तः
11 तृष् तृष् स्त्रीलिङ्गः तर्षणम् । क्विप् कृत् षकारान्तः
12 वाञ्छा वाञ्छा स्त्रीलिङ्गः कृत् आकारान्तः
13 लिप्सा लिप्सा स्त्रीलिङ्गः आकारान्तः
14 मनोरथ मनोरथः पुंलिङ्गः मन एव रथोऽत्र । समासः अकारान्तः