तृट्

सुधाव्याख्या

तर्षणम् । ञितृष पिपासायाम्' (दि० प० से०) । सम्पदादि क्विप् (वा० ३.३.१०८) । ('तृट् लिप्सायामुदन्यायां स्मरपुत्र्यामपि स्त्रियाम्) । (टाबन्तापि भागुरिमते) । (*तृषा लिप्सातृषोः स्त्रियाम् इति मेदिनी) । घञि (३.३.१८) ॥ ‘तर्षो लिप्सोदन्ययो:’ ॥