लिप्सा

सुधाव्याख्या

लभेः सन्नन्तादः (३.३.१०२) ।


प्रक्रिया

धातुः - डुलभँष् प्राप्तौ


लभ् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
लभ् + सन् - धातोः कर्मणः समानकर्तृकादिच्छायां वा 3.1.7
लभ् + स - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
लभ् + लभ् + स - सन्यङोः 6.1.9
ल + लभ् + स - पूर्वोऽभ्यासः 6.1.4, हलादिः शेषः 7.4.60
ल + ल् + इस् + भ् + स - सनि मीमाघुरभलभशकपतपदामच इस् 7.4.54
ल + ल् + इ + भ् + स - स्कोः संयोगाद्योरन्ते च 8.2.29
लि + भ् + स - अत्र लोपोऽभ्यासस्य 7.4.58
लिप् + स - खरि च 8.4.55
लिप्स + अ - अ प्रत्ययात्‌ 3.3.102
लिप्स - अतो लोपः 6.4.48
लिप्स + टाप् - अजाद्यतष्टाप्‌ 4.1.4
लिप्स + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
लिप्सा - अकः सवर्णे दीर्घः 6.1.101
लिप्सा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
लिप्सा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लिप्सा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68