प्रेमा

सुधाव्याख्या

प्रेमेति । प्रीणाति प्रियः । ‘प्रीञ् तर्पणे’ (क्र्या० उ० से०) । इगुपध-’ (३.१.१३५) इति कः । तस्य भावः । ‘पृथ्वादिभ्य इमनिच्' (५.१.१२२) ‘प्रियस्थिर-’ (६.४.१५७) इति प्रादेशः । ‘प्रेमास्त्री स्नेहनर्मणोः ।


प्रक्रिया

धातुः - प्रीञ् तर्पणे कान्तौ च


प्री - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्री + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
प्री + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्र् + इयङ् + अ - अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77
प्र् + इय् + अ - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रिय + ङस् + इमनिच् - पृथ्वादिभ्य इमनिज्वा 5.1.122
प्रिय + इमनिच् - सुपो धातुप्रातिपदिकयोः 2.4.71
प्रिय + इमन् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + इमन् - प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः 6.4.157
प्रेमन् - आद्गुणः 6.1.87
प्रेमन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रेमन् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रेमान् + स् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
प्रेमान् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
प्रेमा - नलोपः प्रातिपदिकान्तस्य 8.2.7