आकाङ्क्षा

सुधाव्याख्या

‘काक्षि वाच्छि इच्छायाम् (भ्वा० प० से०) । ‘गुरोश्च' (३.३.१०३) इत्यः॥


प्रक्रिया

धातुः - काक्षिँ काङ्क्षायाम्


काक्ष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आङ् + का + नुम् + क्ष् - इदितो नुम् धातोः 7.1.58
आङ् + का + न् + क्ष् - नश्चापदान्तस्य झलि 8.3.24
आङ् + कांक्ष् - नश्चापदान्तस्य झलि 8.3.24
आङ् + काङ्क्ष् - अनुस्वारस्य ययि परसवर्णः 8.4.58
आङ् + काङ्क्ष् + अ - गुरोश्च हलः 3.3.103
आ + काङ्क्ष् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आकाङ्क्ष + टाप् - अजाद्यतष्टाप्‌ 4.1.4
आकाङ्क्ष + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
आकाङ्क्षा - अकः सवर्णे दीर्घः 6.1.101
आकाङ्क्षा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आकाङ्क्षा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आकाङ्क्षा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68