अमरकोशः


श्लोकः

हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम् । विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम् ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हास हासः पुंलिङ्गः घञ् कृत् अकारान्तः
2 हास्य हास्यम् नपुंसकलिङ्गः ण्यत् कृत् अकारान्तः
3 बीभत्स बीभत्सम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सन् कृत् अकारान्तः
4 विकृत विकृतम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विकरणम्–विकृतम् । अकारान्तः
5 विस्मय विस्मयः पुंलिङ्गः विस्मयनम् । एरच् कृत् अकारान्तः
6 अद्भुत अद्भुतम् नपुंसकलिङ्गः अत् आश्चर्यार्थेऽव्ययम् । तस्य भवनम् । डुतच् उणादिः अकारान्तः
7 आश्चर्य आश्चर्यम् नपुंसकलिङ्गः आ इति चर्यते अभिनीयते । यत् कृत् अकारान्तः
8 चित्र चित्रम् नपुंसकलिङ्गः चित्रयति । अच् कृत् अकारान्तः
9 भैरव भैरवम् नपुंसकलिङ्गः अण् तद्धितः अकारान्तः