अद्भुतम्

सुधाव्याख्या

अत् आश्चर्यार्थेऽव्ययम् । तस्य भवनम् । ‘अदिभुवो डुतच्' (उ० ५.१)


प्रक्रिया

अत् + भूसत्तायाम् + डुतच् -अदि भुवो डुतच् (५.१) । उणादिसूत्रम् ।
अत् + भू + उत - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अत् + भ् + उत - टेः 6.4.143
अद्भुत - झलां जश् झशि 8.4.53
अद्भुत + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अद्भुत + अम् - अतोऽम् 7.1.24
अद्भुतम् - अमि पूर्वः 6.1.107