चित्रम्

सुधाव्याख्या

चित्रयति । 'चित्र चित्रकरणे’ (चु० उ० से०) । ण्यन्तात् पचाद्यच् (३.१.१३४) । (‘चित्रं खे तिलकेऽद्भुते । आलेख्ये कर्बुरे) चित्रा त्वाखुपर्णीसुभद्रयोः । गोडुम्बाप्सरसोर्दन्त्यां नक्षत्रोरगभेदयोः’ इति हेमचन्द्रः ।