बीभत्सम्

सुधाव्याख्या

बीभत्समिति । बधेर्निन्दायां सन् (३.१.६) । भावे घञ् (३.३.१८) । यद्वा ‘अ प्रत्ययात्’ (३.३.१०२) बीभत्सास्त्यत्र । अर्श आद्यच् (५.२.१२७) । ‘बीभत्सो नार्जुने, क्रूरघृणात्मविकृते त्रिषु' ।