विकृतम्

सुधाव्याख्या

विकरणम्–विकृतम् । जुगुप्साप्रभवत्वात् । विष्ठाकामज उद्वेगी क्षोभणो रुधिरादिजः । बीभत्सो द्विविधः । बीभत्सादिद्वयं तद्वति त्रिलिङ्गम् । प्रज्ञाद्यणि (५.४.३८) वैकृतोऽपि । विकृतो वैकृतो ऽथाग्रहायण्यामग्रहायणम्’ इति शब्दार्णवात् । विकृतं त्रिषु बीभत्से रोगितेऽसंस्कृतेऽपि च' इति विश्वः ।