अमरकोशः


श्लोकः

निषादर्षभगान्धारषड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिता स्वराः ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निषाद निषादः पुंलिङ्गः निषीदति मनोऽस्मिन् । घञ् कृत् अकारान्तः
2 ऋषभ ऋषभः पुंलिङ्गः ऋषति बलीवर्दस्वरसादृश्यं गच्छति । अभच् उणादिः अकारान्तः
3 गान्धार गान्धारः पुंलिङ्गः गन्धारदेशे भवः । अण् तद्धितः अकारान्तः
4 षड्ज षड्जः पुंलिङ्गः षड्भ्यो जातः । डः अकारान्तः
5 मध्यम मध्यमः पुंलिङ्गः मध्ये भवः । मः तद्धितः अकारान्तः
6 धैवत धैवतः पुंलिङ्गः धीमतामयं धैवतः । अकारान्तः
7 पञ्चम पञ्चमः पुंलिङ्गः विचरन्पञ्चमस्थानप्राप्त्या पञ्चम उच्यते । डट् तद्धितः अकारान्तः