ऋषभः

सुधाव्याख्या

ऋषति बलीवर्दस्वरसादृश्यं गच्छति । ’ऋषी गतौ” (तु० प० से०) । ऋषिवृषिभ्यां कित्' (उणा० ३.१२३) इत्यभच् । ऋषभस्त्वौषधान्तरे । स्वरभिद्वृषयोः कर्णरन्ध्रकुम्भीरपुच्छयोः ॥ उत्तरस्थः स्मृतः श्रेष्ठे स्त्री नराकारयोषिति । शूकशिम्ब्यां सिरालायां विधवायां क्वचिन्मता’ (‘आदिजिनेऽपि ) ॥