मध्यमः

सुधाव्याख्या

मध्ये भवः । मध्यान्म:' (४.३.८) । 'तद्वदेवोत्थितो वायुरुरःकण्ठसमाहतः । नाभिं प्राप्तो महानादो मध्यस्थस्तेन मध्यमः । मध्यमो मध्यजे स्वरे । देहमध्ये मध्यदेशे (मध्यमा कर्णिकाङ्गलिः । राकारजस्वला चापि ) इति हैमः । ‘मध्यमो मध्यजेऽन्यवत् । पुमान्स्वरे मध्यदेशेऽप्यवलग्ने तु न स्त्रियाम् ॥ स्त्रियां दृष्टरजो नार्यां कर्णिकाङ्गुलिभेदयोः । त्र्यक्षरच्छन्दसि तथा ।