निषादः

सुधाव्याख्या

निषादेति । निषीदति मनोऽस्मिन् । ‘षद्लृ विशरणगत्यवसादनेषु’ (भ्वा०, तु० प० अ०) । ‘हलश्च (३.३.१२१) इति घञ् । ‘सदिरप्रतेः’ (८.३.६६) इति षत्वम् । निषादः स्वरभेदेऽपि चण्डाले धीवरान्तरे ।