अमरकोशः


श्लोकः

अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम् । सोल्लुण्ठनं तु सोत्प्रासं भणितं रतिकूजितम् ॥ अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अनक्षर अनक्षरम् नपुंसकलिङ्गः न प्रशस्तान्यक्षराणि यस्मिन् । सामसः अकारान्तः
2 अवाच्य अवाच्यम् नपुंसकलिङ्गः न वचनार्हम् । ण्यत् कृत् अकारान्तः
3 आहत आहतम् नपुंसकलिङ्गः आहन्यते स्म । क्तः कृत् अकारान्तः
4 सोल्लुण्ठन सोल्लुण्ठनम् नपुंसकलिङ्गः उल्लुण्ठनेन सहितम् ॥ ल्युट् कृत् अकारान्तः
5 सोत्प्रास सोत्प्रासम् नपुंसकलिङ्गः उत्प्रासनम् । घञ् कृत् अकारान्तः
6 भणित भणितम् नपुंसकलिङ्गः मणितमिति । क्तः कृत् अकारान्तः
7 रतिकूजित रतिकूजितम् नपुंसकलिङ्गः रतौ कूजितम् ॥ अकारान्तः
8 म्लिष्ट म्लिष्टम् नपुंसकलिङ्गः म्लेच्छयते स्म । क्तः कृत् अकारान्तः
9 अविस्पष्ट अविस्पष्टम् नपुंसकलिङ्गः न विस्पश्यते स्म । क्तः कृत् अकारान्तः
10 वितथ वितथम् नपुंसकलिङ्गः विगतं तथा सत्यं यस्माद्वितथम् । समासः अकारान्तः
11 अनृत अनृतम् नपुंसकलिङ्गः न ऋतम् । तत्पुरुषः समासः अकारान्तः