वितथम्

सुधाव्याख्या

वितथमिति । विगतं तथा सत्यं यस्माद्वितथम् । 'अच्’ (५.४.७५) इति योगविभागात्समासान्तोऽच् । यद्वा वितन्यते । बाहुलकात्क्थन् । ‘अनुदात्तो–’ (६.४३७) इति नलोपः ॥