सोल्लुण्ठनम्

सुधाव्याख्या

सोल्लुण्ठनमिति । ‘लुठि आलस्ये प्रतीघाते च' (भ्वा० प० से०) । ल्युट् (३.३.११५) । उल्लुण्ठनेन सहितम् ॥


प्रक्रिया

धातुः - लुठिँ आलस्ये प्रतिघाते च


लुठ् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लु + नुम् + ठ् - इदितो नुम् धातोः 7.1.58
लुन्ठ् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लुंठ् - नश्चापदान्तस्य झलि 8.3.24
लुण्ठ् - अनुस्वारस्य ययि परसवर्णः 8.4.58
सह + उत् + लुण्ठ् + ल्युट् - ल्युट् च 3.3.115
सह + उत् + लुण्ठ् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सह + उत् + लुण्ठ् + अन - युवोरनाकौ 7.1.1
सह + उल् + लुण्ठन - तोर्लि 8.4.60
स + उल् + लुण्ठन - सहस्य सः संज्ञायाम् 6.3.78
सोल्लुण्ठन - आद्गुणः 6.1.87
सोल्लुण्ठन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सोल्लुण्ठन + अम् - अतोऽम् 7.1.24
सोल्लुण्ठनम् - अमि पूर्वः 6.1.107