रतिकूजितम्

सुधाव्याख्या

रतौ कूजितम् ॥


प्रक्रिया

रति + ङि + कूजित + सु - सप्तमी शौण्डैः 2.1.40 सप्तमी इति योगविभागात् समासः ।
रति + कूजित - सुपो धातुप्रातिपदिकयोः 2.4.71
रतिकूजित + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
रतिकूजित + अम् - अतोऽम् 7.1.24
रतिकूजितम् - अमि पूर्वः 6.1.107