अमरकोशः


श्लोकः

लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् । अम्बूकृतं सनिष्ठेवमबद्धं स्यादनर्थकम् ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लुप्तवर्णपद लुप्तवर्णपदम् नपुंसकलिङ्गः लुप्तो वर्णः पदं वा यत्र पदे वाक्ये वा ॥ बहुव्रीहिः समासः अकारान्तः
2 ग्रस्त ग्रस्तम् नपुंसकलिङ्गः ग्रस्यते स्म । क्तः कृत् अकारान्तः
3 निरस्त निरस्तम् नपुंसकलिङ्गः त्वरितमुदितम् ॥ क्तः कृत् अकारान्तः
4 त्वरितोदित त्वरितोदितम् नपुंसकलिङ्गः निरस्यते स्म । क्तः कृत् अकारान्तः
5 अम्बूकृत अम्बूकृतम् नपुंसकलिङ्गः निष्ठेवनम् ।अनम्बु अम्बु अकारि । घञ् कृत् अकारान्तः
6 सनिष्ठेव सनिष्ठेवम् नपुंसकलिङ्गः अकारान्तः
7 अबध्द अबद्धम् नपुंसकलिङ्गः न बद्धयते स्म । क्तः कॄदन्तः अकारान्तः
8 अनर्थक अनर्थकम् नपुंसकलिङ्गः न अर्थो यस्य । अकारान्तः