निरस्तम्

सुधाव्याख्या

निरस्तमिति । निरस्यते स्म । 'असु क्षेपणे' (दि० प० से०) । क्तः (३.२.१०२) । निरस्तः प्रेषितशरे संत्यक्ते त्वरितोदिते । निष्ठ्यूते प्रतिहते च' इति हैमः ॥