अनर्थकम्

सुधाव्याख्या

न अर्थो यस्य । 'अर्थान्नञः' इत्युरः प्रभृतिषु (५.४.१५१) पाठान्नित्यं कप् समासान्तः । अनर्थकं जरद्गवादिवाक्यम् । अवध्यं स्याद् इति पाठ इति कौमुदी । ‘अवध्यमवधार्हे स्यादनर्थकवचस्यपि इति (हैममेदिन्योः) दर्शनात् ॥