अम्बूकृतम्

सुधाव्याख्या

अम्बूकृतमिति । निष्ठेवनम् । 'ष्ठिषु निरसने’ (भ्वा० प० से०) । घञ् (३.३.१८) । लघूपधगुणः (७.३.८६) ॥ ‘सनिष्ठीवम्’ इति पाठे तु पृषोदरादित्वात् (६.३.१०९) ईकारः । सह निष्ठेवेन श्लेष्मकणादिनिर्गमेनेति सनिष्ठेवम् ॥ अम्बुशब्द उपचारात्तद्वति । अनम्बु अम्बु अकारि । च्विः (५.४.५०) । ‘च्वौ च' (६.३.१३८) इति दीर्घः । क्तः (३.२.१०२) ॥