अमरकोशः


श्लोकः

श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते । कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 श्याव श्यावः पुंलिङ्गः श्यायते । वः बाहुलकाद् अकारान्तः
2 कपिश कपिशः पुंलिङ्गः कपिर्वर्णविशेषः । सोऽस्यास्ति । शः तद्धितः अकारान्तः
3 धूम्र धूम्रः पुंलिङ्गः धूमं राति । कः कृत् अकारान्तः
4 धूमल धूमलः पुंलिङ्गः धूमं लाति । कः कृत् अकारान्तः
5 कृष्ण्लोहित कृष्ण्लोहितः पुंलिङ्गः कृष्णमिश्रो लोहित: । अकारान्तः
6 कडार कडारः पुंलिङ्गः गडति । आरन् उणादिः अकारान्तः
7 कपिल कपिलः पुंलिङ्गः कपिं वर्णं लातीति वा । इलच् उणादिः अकारान्तः
8 पिङ्ग पिङ्गः पुंलिङ्गः पिञ्जयति । अच् कृत् अकारान्तः
9 पिशङ्ग पिशङ्गः पुंलिङ्गः पेशति । अङ्गच् उणादिः अकारान्तः
10 कद्रु कद्रुः पुंलिङ्गः कन्दति । उणादिः उकारान्तः
11 पिङ्गल पिङ्गलः पुंलिङ्गः पिञ्जति । कलच् उणादिः अकारान्तः