कपिलः

सुधाव्याख्या

‘कवृ वर्णा’ (भ्वा० आ० से०) । ‘कबे पश्च (उ० १.५५) इति इलच् प्रत्ययः । पकारश्चान्तादेशः । कपिं वर्णं लातीति वा । ‘पुण्डरीककरिण्यां तु शिंशिपागोविशेषयोः । स्त्री रेणुकायां कपिला वर्णे ना कुक्कुरे मुनौ । अनले वासुदेवे च कपिलः परिकीर्तितः’ ।