पिङ्गः

सुधाव्याख्या

पिञ्जयति । 'पिजि वर्णे’ (अ० आ० से०) । अच् (३.१.१३४) । न्यङ्क्वादिः (७.३.५३) । पिङ्गा गोरोचनाहिङ्गुनाडिकाचण्डिकासु च । पिङ्गी शम्यां पिशङ्गे ना वालके तु नपुंसकम्' ।


प्रक्रिया

धातुः - पिजिँ वर्णे सम्पर्चने अवयवे अव्यक्ते शब्दे च


पिज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पि + नुम् + ज् - इदितो नुम् धातोः 7.1.58
पि + न् + ज् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिंज् - नश्चापदान्तस्य झलि 8.3.24
पिंग् - न्यङ्क्वादीनां च 7.3.53
पिंग् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
पिंग् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पिङ्ग - अनुस्वारस्य ययि परसवर्णः 8.4.58
पिङ्ग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पिङ्ग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिङ्ग + रु - ससजुषो रुः 8.2.66
पिङ्ग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिङ्गः - खरवसानयोर्विसर्जनीयः 8.3.15