कडारः

सुधाव्याख्या

गडति । ‘गड सेचने’ (भ्वा० प० से०) । ‘गडे: कड च' (उ० ३१३२) इत्यारन् । यद्वा कडनम् । कडः । ‘खनो घ च’ (३.३.१२५) इति घः । कडमृच्छति । 'ऋ गतौ (भ्वा० प० अ०) । ‘कर्मण्यण्' (३.२.३) । ('कडारः पिङ्गले दासे’)