पिङ्गलः

सुधाव्याख्या

पिञ्जति । ‘पिजि वर्णे’ (अ०.०.०) । वृषादित्वात् (उ० १.१०६) कलच् । 'न्यङ्क्वादीनां च' (७.३.५३) इति कुत्वम् । पिङ्गं लातीति वा । ‘पिङ्गल: कपिले बभ्रौ रुद्रेऽर्क पारिपार्श्विके । कपौ मुनौ निधेर्भेदे पिङ्गला कुमुदस्त्रियाम् ।


प्रक्रिया

धातुः - पिजिँ वर्णे सम्पर्चने अवयवे अव्यक्ते शब्दे च


पिज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पि + नुम् + ज् - इदितो नुम् धातोः 7.1.58
पि + न् + ज् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिंज् - नश्चापदान्तस्य झलि 8.3.24
पिंज् + कलच् - वृषादिभ्यश्चित् (१.१०६) । उणादिसूत्रम् ।
पिंज् + अल - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पिंग् + अल - न्यङ्क्वादीनां च 7.3.53
पिङ्ग् + अल - अनुस्वारस्य ययि परसवर्णः 8.4.58
पिङ्गल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पिङ्गल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिङ्गल + रु - ससजुषो रुः 8.2.66
पिङ्गल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिङ्गलः - खरवसानयोर्विसर्जनीयः 8.3.15