अमरकोशः


श्लोकः

जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता । चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मन: ॥ ३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जाति जातिः स्त्रीलिङ्गः जायते । क्तिच् कृत् इकारान्तः
2 जात जातम् नपुंसकलिङ्गः क्त कृत् अकारान्तः
3 सामान्य सामान्यम् नपुंसकलिङ्गः समानानां भावः । ष्यञ् तद्धितः अकारान्तः
4 व्यक्ति व्यक्तिः स्त्रीलिङ्गः व्यज्यतेऽनया । क्तिन् कृत् इकारान्तः
5 पृथगात्मता पृथगात्मता स्त्रीलिङ्गः पृथगात्मा यस्य तस्य भावः । तल् तद्धितः आकारान्तः
6 चित्त चित्तम् नपुंसकलिङ्गः क्त कृत् अकारान्तः
7 चेतस् चेतः नपुंसकलिङ्गः असुन् उणादिः सकारान्तः
8 हृदय हृदयम् नपुंसकलिङ्गः ह्रियते विषयैः । कयन् उणादिः अकारान्तः
9 स्वान्त स्वान्तम् नपुंसकलिङ्गः स्वन्यते स्म । क्त कृत् अकारान्तः
10 हृद् हृद् नपुंसकलिङ्गः ह्रियते विषयैः । क्विप् कृत् दकारान्तः
11 मानस मानसम् नपुंसकलिङ्गः मन्यतेऽनेन । अण् तद्धितः अकारान्तः
12 मनस् मनः नपुंसकलिङ्गः तदभावे मनः । असुन् उणादिः सकारान्तः