हृदयम्

सुधाव्याख्या

ह्रियते विषयैः । ‘वृहोः षुग्दुकौ च' (उ० ४.१००) इति कयन् दुगागमश्च । हरति आहरति विषयानिति वा । (‘हृदयं वक्षसि स्वान्ते वुक्कायाम्’)