चित् |
- उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9 |
चित् + असुन् |
- सर्वधातुभ्योऽसुन् (४.१८९)। उणादिसूत्रम् । |
चित् + अस् |
- हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9 |
चेतस् |
- पुगन्तलघूपधस्य च 7.3.86 |
चेतस् + सु |
- स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2 |
चेतस् + स् |
- उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9 |
चेतस् |
- हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 |
चेतरु |
- ससजुषो रुः 8.2.66 |
चेतर् |
- उपदेशेऽजनुनासिक इत् 1.3.2 तस्य लोपः 1.3.9 |
चेतः |
- खरवसानयोर्विसर्जनीयः 8.3.15 |