जातिः

सुधाव्याख्या

जायते । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । 'क्तिच्क्तौ च-(३.३.१७४) इति क्तिच् । ‘जनसन (६.४.४२) इत्यादिनात्वम् । तितुत्र-' (७.२.९) इति नेट् । ‘जातिः सामान्यगोत्रयोः । मालत्यामामलक्यां च चुल्ल्यां कम्पिल्लजन्मनोः । जातीफले छन्दसि च' इति हैमः ।